|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.8. अध्यायः 008
Mahabharata - Sabha Parva - Chapter Topics
यमसभावर्णमम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
नारद उवाच।
कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्।
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह॥ 2-8-1(11597)
तैजसी सा सभा राजन्बभूव शतयोजना।
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव॥ 2-8-2(11598)
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी।
नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी॥ 2-8-3(11599)
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्।
न च दैन्यं क्लमो वाऽपि प्रतिकूलं न चाप्युत॥ 2-8-4(11600)
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः।
रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम॥ 2-8-5(11601)
लेह्यं चोप्यं च पेयं च हृद्यं स्वादु मनोहरम्।
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः॥ 2-8-6(11602)
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि।
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः॥ 2-8-7(11603)
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते।
ययातिर्नहुषः पुरुर्मान्धाता सोमको नुगः॥ 2-8-8(11604)
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः।
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः॥ 2-8-9(11605)
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः।
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः॥ 2-8-10(11606)
चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः।
भरतः सुरथश्चैव सुनीथो निशठोऽनलः॥ 2-8-11(11607)
दिवोदासश्च सुमना अम्बरीषो भगीरथः।
व्यश्वः सदश्वो वाघ्र्यश्वः पृथुवेगः पृथुश्रवाः॥ 2-8-12(11608)
पृपदश्वो वसुमनाः क्षुपश्च सुमहाबलः।
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी॥ 2-8-13(11609)
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः।
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः॥ 2-8-14(11610)
अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः।
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः॥ 2-8-15(11611)
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः।
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः॥ 2-8-16(11612)
कपोतरोमा तृणकः सहदेवार्जुनौ तथा।
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः॥ 2-8-17(11613)
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः।
अलर्कः कक्षसेनश्च गयो गौराओश्व एव च॥ 2-8-18(11614)
जामदग्न्यश्च रामश्च नाभागसगरौ तथा।
भूरिद्युम्नो महाश्वश्च पृथाशअवो जनकस्तथा॥ 2-8-19(11615)
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः।
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा॥ 2-8-20(11616)
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः।
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्॥ 2-8-21(11617)
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा।
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः॥ 2-8-22(11618)
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः।
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्॥ 2-8-23(11619)
भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्।
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः॥ 2-8-24(11620)
पलाशानां शतं ज्ञेयं शतं काशकुशादयः।
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव॥ 2-8-25(11621)
उशङ्गवः शतरथो देवराजो जयद्रथः।
वृषदर्भश्च राजर्षिर्बुद्धिमान्सहमन्त्रिभिः॥ 2-8-26(11622)
अथापरे सहस्राणि ये गताः शसबिन्दवः।
इष्ट्वाऽश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः॥ 2-8-27(11623)
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः।
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते॥ 2-8-28(11624)
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च।
यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः॥ 2-8-29(11625)
अग्निष्वात्ताश्च पितरः फेनपाश्वोष्मपाश्च ये।
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे॥ 2-8-30(11626)
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः।
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः॥ 2-8-31(11627)
कालस्य नयने युक्ता यमस्य पुरुपाश्च ये।
तस्यां शिंशुपपालाशास्तथा काशकुशादयः॥ 2-8-32(11628)
उपासते धर्मराजं मूर्तिमन्तो जनाधिप।
एते चान्ये च बहवः पितृराजसभासदः।
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा । 2-8-33(11629)
असम्बाधा हि सा पार्थ रम्या कामगमा सभा।
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा। 2-8-34(11630)
ज्वलन्ती भासमाना च तेजसा स्वेन भारत।
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः॥ 2-8-35(11631)
शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा।
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः॥ 2-8-36(11632)
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः।
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः॥ 2-8-37(11633)
गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः।
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः॥ 2-8-38(11634)
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः।
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः॥ 2-8-39(11635)
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्।
उपासते महात्मानं रूपयुक्ता मनस्विनः॥ 2-8-40(11636)
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः।
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्॥ ॥ 2-8-41(11637)
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टमोऽध्यायः॥ 8॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-8-18 रामइति रामलक्ष्मणयोर्विष्णुशेषरूपेण स्वस्थानस्थयोरपि रूपान्तरेण उपासकानु ग्रहार्थमत्रावस्थानम्॥ 2-8-23 धृतराष्टाश्चैकशतमिति पुराणेषु प्रायेणाधिकारिणामेव कीर्तनात्तेषां च प्रति कल्पं समाननामरूपकर्मत्वादनेककल्पं धर्मसभावासिनां तेषां बहुत्वं युक्तम्। एवमन्येषामपि॥ 2-8-31 दुष्कृतकर्माणो विद्याविहीनकर्ममात्रनिष्टाः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|